कक्कोलकम्

सुधाव्याख्या

ककन्तेऽत्र । ‘कक लौल्ये’ (भ्वा० आ० से०) । सम्पदादिः (वा० ३.३.१०८) । कोलति । ज्वलादित्वात् (३.१.१४०) णः । कक् च तत् कोलं च । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥


प्रक्रिया

धातुः -


ककँ लौल्ये
कक् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कक् + क्विप् - संपदादिभ्यः क्विप् (3.3.108) ।
कक् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9, वेरपृक्तस्य 6.1.67
कुलँ संस्त्याने बन्धुषु च
कुल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कुल् + ण - ज्वलितिकसन्तेभ्यो णः 3.1.140
कुल् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
कोल - पुगन्तलघूपधस्य च 7.3.86
कक् + सु + कोल + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
कक्कोल - सुपो धातुप्रातिपदिकयोः 2.4.71
कक्कोल + कन् - न सामिवचने 5.4.5
कक्कोलक - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कक्कोलक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कक्कोलक + अम् - अतोऽम् 7.1.24
कक्कोलकम् - अमि पूर्वः 6.1.107