नग्निका

सुधाव्याख्या

स्त्रीति । नजते स्म । ‘ओ नजी व्रीडे’ (तु० आ० से०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः । ‘ओदितश्च’ (८.२.४५) इति नत्वम् । स्वार्थे कन् (५.३.७५) । ‘नग्नो बन्दिक्षपणयोः पुंसि, त्रिषु विवाससि’ (इति मेदिनी) ॥


प्रक्रिया

धातुः -


ओँ नजीँ व्रीडे
नज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नज् + क्त - गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च 3.4.72
नज् + त - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
नग् + त - चोः कुः 8.2.30
नग् + न - ओदितश्च 8.2.45
नग् + न + कन् - संज्ञायां कन् 5.3.75
नग् + न + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
नग्नक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
नग्नक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
नग्नका - अकः सवर्णे दीर्घः 6.1.101
नग्निका - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44
नग्निका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
नग्निका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नग्निका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68