कोटवी

सुधाव्याख्या

कोटनम् । ‘कुट कौटिल्ये’ (तु० प० से०) । घञ् (३.३.१८) । कोटं वाति । ‘आतोऽनुप–’ (३.२.३) इति कः । गौरादिः (४.१.४१) । ‘कोट्टवी’ इति पाठे ‘कुट्ट छेदने’ (चु० प० से०) । बाहुलकाद्गुणः ॥


प्रक्रिया

धातुः -


कुटँ कौटिल्ये
कुट् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कुट् + घञ् - भावे 3.3.18
कुट् + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
कोट - पुगन्तलघूपधस्य च 7.3.86
वा गतिगन्धनयोः
कोट + अम् + वा + क - आतोऽनुपसर्गे कः 3.2.3, उपपदमतिङ् 2.2.19
कोट + वा + क - सुपो धातुप्रातिपदिकयोः 2.4.71
कोट + वा + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
कोट + व् + अ - आतो लोप इटि च 6.4.64
कोटव + ङीष् - षिद्गौरादिभ्यश्च 4.1.41
कोटव + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
कोटव् + ई - यस्येति च 6.4.148
कोटवी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कोटवी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कोटवी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68