संचारिका

सुधाव्याख्या

संचरति । संचारयति, वा । ‘चर गतौ’ (भ्वा० प० से०) । ण्वुल् (३.१.१३३) । ‘संचारिका तु युगले कुट्टनीघ्राणयोरपि’ । इति विश्वमेदिन्यौ ॥


प्रक्रिया

धातुः -


चरँ गतौ भक्षणे च
चर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सम् + चर् + ण्वुल् - ण्वुल्तृचौ 3.1.133
सम् + चर् + वु - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
सम् + चर् + अक - युवोरनाकौ 7.1.1
सम् + चार् + अक - अत उपधायाः 7.2.116
संचारक - नश्चापदान्तस्य झलि 8.3.24
सञ्चारक - अनुस्वारस्य ययि परसवर्णः 8.4.58
सञ्चारक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
सञ्चारक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
सञ्चारका - अकः सवर्णे दीर्घः 6.1.101
सञ्चारिका - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44
सञ्चारिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सञ्चारिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सञ्चारिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68