वातप्रमी

सुधाव्याख्या

वातेति । वातं प्रमिमीते – वाताभिमुखधावनात् । ‘वातप्रमी:' इत्युणादिसूत्रेण माङ ईप्रत्ययः कित् । 'वातप्रमीर्वातमृगः' इति पुंस्काण्डेऽमरमाला । ‘योषिति वातप्रमीः समीरमृगः' इति बोपालितात् स्त्रीत्वमप्यस्य - कृदिकारात्’ (ग० ४.१.४५) इति वा ङीष् इत्येके । अन्ये तु कारग्रहणस्य तपरार्थत्वाद्दीर्घान् ङीष् न — इत्याहुः ॥