शलली

सुधाव्याख्या

तदिति । तस्य श्वाविधो लोमनि । शलति । वृषादित्वात् (उ० १.१०६) कलच् । गौरादित्वात् (४.१.४१) जातित्वात् (४.१.६४) वा ङीष् स्त्रियाम् ॥