श्वाविध्

सुधाव्याख्या

श्वेति । श्वानं विध्यति । ‘व्यध ताडने' (दि० प० अ०) । क्विप् (३.२.१७८) । ‘नहिवृति-' (६.३.११६) इति दीर्घः ॥


प्रक्रिया

धातुः -


व्यधँ ताडने
व्यध् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
श्व + अम् + व्यध् + क्विप् - उपपदमतिङ् 2.2.19, अन्येभ्योऽपि दृश्यते 3.2.178
श्व + व्यध् + क्विप् - सुपो धातुप्रातिपदिकयोः 2.4.71
श्व + व्यध् + व् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
श्व + व्यध् - वेरपृक्तस्य 6.1.67
श्व + विध् - ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च 6.1.16
श्वाविध् - नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ 6.3.116
श्वाविध् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
श्वाविध् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
श्वाविध् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68