शल्यः

सुधाव्याख्या

शलति । ‘शल चलने' (भ्वा० प० से०) । अघ्न्यादित्वात् (उ० ४.११२) यः । ‘शल्यं तु न स्त्रियां शङ्कौ क्लीबं क्ष्वेडेषुतोमरे । मदनद्रुश्वाविधोर्ना’ (इति मेदिनी) ॥