स्तोमः

सुधाव्याख्या

स्तूयते । ‘ष्टुञ् स्तुतौ’ (अ० उ० अ०) । ‘अर्तिस्तुसु-’ (उ० १.१४०) इति मन् ॥


प्रक्रिया

धातुः -


ष्टुञ् स्तुतौ
स्तु - धात्वादेः षः सः 6.1.64, निमित्तापाये नैमित्तिकस्याप्यपायः ।, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9](https://ashtadhyayi.com/sutraani/1/3/9)
स्तु + मन् - अर्तिस्तुसुहुसृधृभिक्षुभायावापदियक्षिनीभ्यो मन् (१.१४०) । उणादिसूत्रम् ।
स्तु + म - हलन्त्यम् 1.3.3
स्तो + म - सार्वधातुकार्धधातुकयोः 7.3.84
स्तोम + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
स्तोम+ स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
स्तोम+ रु - ससजुषो रुः 8.2.66
स्तोम+ र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
स्तोमः - खरवसानयोर्विसर्जनीयः 8.3.15