व्रजः

सुधाव्याख्या

व्रजति । ‘व्रज गतौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘व्रजो गोष्ठाध्व वृन्देषु’ (इति मेदिनी) । करणाधिकरणव्युत्पत्तौ तु ‘गोचरसंचर-’ (३.३.११९) इति निपातितः ॥