ओघः

सुधाव्याख्या

आ उह्यतेऽनेन । ‘हलश्च’ (३.३.१२१) इति घञ् । न्यङ्क्वादित्वात् (७.३.५३) कुत्वम् । ‘ओघो वेगे जलस्य च । वृन्दे परम्परायां च द्रुतनृत्योपदेशयोः’ इति मेदिनी ॥