जीवंजीवः

सुधाव्याख्या

जीवं जीवयति । तद्दर्शनेन विषनाशकत्वात् । ‘कृत्यल्ल्युटो बहुलम्’ (वा० ३.३.११३) इति बाहुलकात्खच् । ‘जीवंजीवः खगान्तरे । द्रुमभेदे चकोरे च’ इति हैमः ॥


प्रक्रिया

धातुः -


जीवँ प्राणधारणे
जीव् - उपदेशेऽजनुनासिक इत् 1.3.2
जीव + अम् + जीव् + खच् - कृत्यल्युटो बहुलम् 3.3.113, उपपदमतिङ् 2.2.19
जीव + जीव् + खच् - सुपो धातुप्रातिपदिकयोः 2.4.71
जीव + जीव् + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
जीव + मुम् + जीव - अरुर्द्विषदजन्तस्य मुम् 6.3.67
जीवम् + जीव - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2
जीवं + जीव - नश्चापदान्तस्य झलि 8.3.24
जीवञ्जीव + सु - अनुस्वारस्य ययि परसवर्णः 8.4.58
जीवञ्जीव + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
जीवञ्जीव + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
जीवञ्जीव + रु - ससजुषो रुः 8.2.66
जीवञ्जीव + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
जीवञ्जीवः - खरवसानयोर्विसर्जनीयः 8.3.15