तित्तिरिः

सुधाव्याख्या

‘तित्तिशब्दं’ राति । बाहुलकात्किः । ‘तित्तिरिः पक्षिणि मुनौ’ इति हैमः । अदन्तपक्षे ‘आतोऽनुप-’ (३.२.३) इति कः । ‘कपोतलावतित्तिराः’ इति वाचस्पतिः ॥