वर्तिका

सुधाव्याख्या

उदीचां तु स्त्रियामित्त्वम् । प्राचां न (वा० ७.३.४५) । इति स्त्रियां रूपद्वयप्रदर्शनाय ‘वर्तिका’ ग्रहणम्, इति प्राञ्चः । वस्तुतस्तु ‘वृतेस्तिकन्’ (उ० ३.१४६) इति तिकन्नन्तस्य मूषिकवत् पुंस्यपि ‘वर्तिकः’ । इति रूपकथनमिदम् । ‘वर्तकस्तु खुरेऽश्वस्य विहगे वर्तिका द्वयोः’ (इति मेदिनी) ॥ आदिना शारिकादयो ज्ञेयाः ।