कुक्कुभः

सुधाव्याख्या

‘कुक्’ इति शब्दं कौति । ‘कु शब्दे’ (अ० प० अ०) । बाहुलकाद्भक् । ‘कुक्कु’ शब्दं भाषते । ‘भाष व्यक्तायां वाचि’ (भ्वा० आ० से०) । ‘अन्येभ्योऽपि’ (वा० ३.२.१०१) इति डः । वनकुक्कुटोऽयम् ॥