वायसः

सुधाव्याख्या

वयते । ‘वय गतौ’ (भ्वा० आ० से०) । ‘वयश्च’ (उ० ३.१२०) इत्यसच् । —वयति इति मुकुटश्चिन्त्यः । वयतेरात्मनेपदित्वात् । ‘वायसोऽगुरुवृक्षेऽपि श्रीवासध्वाङ्क्षयोः पुमान्’ (इति मेदिनी) ॥