करटः

सुधाव्याख्या

करोति शकुनम् । ‘शकादिभ्योऽटन्’ (उ० ४.८१) । के रटति । ‘रट परिभाषणे' (भ्वा० प० से०) । अच् (३.१.१३४) वा । ‘करटो गजगण्डे स्यात्कुसुम्भे निन्द्यजीवने । एकादशाहादिश्राद्धे दुर्दुरूढेऽपि वायसे । (‘करटो वाद्यभेदे') (इति विश्वमेदिन्यौ) ॥