पोत्री

सुधाव्याख्या

पोत्रं मुखाग्रमस्त्यस्य । ‘अत:-' (५.२.११५) इतीनिः ॥


प्रक्रिया

धातुः -


पोत्री सुधाव्याख्या - पोत्रं मुखाग्रमस्त्यस्य । ‘अत:-' (५.२.११५) इतीनिः ॥
प्रक्रिया –
पोत्र + सु + इनि - अत इनिठनौ 5.2.115
पोत्र + इनि - सुपो धातुप्रातिपदिकयोः 2.4.71
पोत्र + इन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पोत्रिन् - यस्येति च 6.4.148
पोत्रिन् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पोत्रिन् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पोत्रीन् + स्
पोत्रीन् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
पोत्री - नलोपः प्रातिपदिकान्तस्य 8.2.7