कोलः

सुधाव्याख्या

कोलति पीनत्वात् । ‘कुल संस्त्याने' (भ्वा० प० से०) । अच् (३.१.१३४) । यद्वा कोलन्त्यङ्गान्यत्र । ‘हलश्च' (३.३.१२१) इति घञ् । 'कोलो भेलक उत्सङ्गेऽङ्कपाल्यां चित्रके किरौ । कोलं च बदरे कोला पिप्पल्यां चव्यभेषजे' इति हैमः ॥