सूकरः

सुधाव्याख्या

सुधाव्याख्या – सवनम् । 'षूङ् प्राणिगर्भविमोचने’ (अ० आ० से०) । सम्पदादिः (वा. ३.३.१०८) । सुवं प्रसवं करोति । ‘कृञो हेतु-' (३.२.२०) इति टः ॥ ‘तालव्या अपि दन्त्याश्च शम्बशूकरपांशवः' इति शभेदः । शूकोऽस्त्यस्य । खररोमत्वात् रः । यद्वा शूकं राति । ‘रा आदाने (अ० प० अ०) । ‘आतोऽनुप-' (३.२.३) इति कः । यद्वा ‘शू' इति ध्वनिं करोति । अच् (३.१.१३४) । अः (३.२.२०) वा ॥


प्रक्रिया

धातुः -


षूङ् प्राणिगर्भविमोचने
षू - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
सू - धात्वादेः षः सः 6.1.64
सू + क्विप् - संपदादिभ्यः क्विप् (3.3.108) । वार्तिकम् ।
सू + व् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
सू - वेरपृक्तस्य 6.1.67
डुकृञ् करणे
कृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9, आदिर्ञिटुडवः 1.3.5
सू + सु + कृ + ट - कृञो हेतुताच्छील्यानुलोम्येषु 3.2.20
सू + कृ + ट - सुपो धातुप्रातिपदिकयोः 2.4.71
सू + कृ + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
सू + कर् + अ - सार्वधातुकार्धधातुकयोः 7.3.84
सूकर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सूकर + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सूकर + रु - ससजुषो रुः 8.2.66
सूकर + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सूकरः - खरवसानयोर्विसर्जनीयः 8.3.15