लक्ष्मणा

सुधाव्याख्या

सारेति । लक्ष्मीरस्त्यस्याः । ‘लक्ष्म्या अच्च’ (ग० ५.२.१००) इति नः । ‘सारस्यां लक्ष्मणा ना तु सौमित्रौ श्रीमति त्रिषु’ इति रुद्रः । ‘लक्ष्मणा त्वोषधीभेदे सारस्यामपि योषिति । रामभ्रातरि पुंसि स्यात् सश्रीके चाभिधेयवत्’ इति मेदिनी । निर्मकारोऽपि । ‘लक्षणश्चैव सारसे’ इत्यमरमाला । ‘लक्षणं नाम्नि चिह्नेऽथ सारस्यां लक्षणा क्वचित्’ (इति मेदिनी) ॥