शरारिः

सुधाव्याख्या

शरेति । शरं नीरमृच्छति । शरं हिंसां वा । ‘ऋ गतौ’ (भ्वा० प० अ०) । ‘अच इः’ (उ० ४.१३९) । ‘गुन्द्रेष्वोर्ना शरं नीरे’ इति तालव्यादौ रभसः । कपिलिकादित्वात् (वा० ८.२.१८) लत्वे ‘शरालिः’ अपि । ‘शरातिः’ इति पाठान्तरम् । शरमतति । ‘अत सातत्यगमने’ (भ्वा० प० से०) । ‘अज्यतिभ्यां च’ (उ० ४.१३१) इतीण् ॥