आडिः

सुधाव्याख्या

आ अडति । ‘अडँ उद्यमने’ (भ्वा० प० से०) । इन् (उ० ४.११८) । -‘अक्ष्यडिभ्यामिण्’-इति मुकुटः । तन्न । उज्ज्वलदत्तादावेतत्सूत्रादर्शनात् ॥ त्रयोऽपि स्त्रीलिङ्गाः । ‘आडिः शरालिर्वरटी गन्धोली, वानरी कपी’, इति स्त्रीलिङ्गकाण्डे रत्नकोषात् ।