किकीदिविः

सुधाव्याख्या

‘किकी' इति दीव्यति वाशते । ‘दिवु क्रीडादौ’ (दि० प० से०) । ‘कृविघृष्वि (उ० ४.५६) इति साधुः । ‘किकीदिविश्व चाषः स्यात्' इति रत्नकोषः । 'चाषो दिविः किकिः स्मृतः' इति व्याडिः ॥