चाषः

सुधाव्याख्या

अथेति । चाषयति । ‘चष हिंसायाम्' (चु० प० से०) । स्वार्थण्यन्तः । ‘चष भक्षणे' (भ्वा० उ० से०) हेतुमण्ण्यन्तो वा । अच् (३.१.१३४) । ‘चास:' अपि । ‘इक्षुपक्षिभिदोश्चासः इति दन्त्यान्तेषु रभसः ॥