कलिङ्गः

सुधाव्याख्या

केति । के मूर्ध्नि लिङ्गं चूडास्य । कलिं कलहं गच्छति वा । ‘गमश्च' (३.२.४७) इति खच् । ‘खच् डिद्वक्तव्यः' (वा० ३.२.३८) । ‘कलिङ्गः पूतिकरजे धूम्याटे भूम्नि नीवृति । न द्वयोः कौटजफले महिलायां तु योषिति' (इति मेदिनी) ॥