दोला

सुधाव्याख्या

दोलयति । 'दुल उत्क्षेपे' (चु० प० से०) । पचाद्यच् । ‘दोला नील्यां यानान्तरेऽपि च' (इति मेदिनी) ‘मेला’ इति स्वामी । ‘तुत्था श्रीफलिका मेला सारवाही च रञ्जनी' इति निघण्टुः ॥