तुत्था

सुधाव्याख्या

तुद्यते । ‘तुद व्यथने (तु० उ० अ०) | ‘पातॄतुदि-' (उ० २.७) इति थक् । तुत्थयति वा । ‘तुत्थ आवरणे' । पचाद्यच् (३.१.१३४) । “तुत्थमञ्जनभेदे स्यान्नीलीसूक्ष्मैलयोः स्त्रियाम्' (इति मेदिनी) ॥