रञ्जनी

सुधाव्याख्या

रञ्जयति । ल्युट् (३.३.११३) । णिलोपस्य स्थानिवद्भावात् ‘असनयोश्च' इति नलोपो न । रज्यतेऽनया, इति विग्रहे तु ‘करणा-' (३.३.११७) इति ल्युटि भवत्येव । ‘रञ्जे: क्युन्' (उ० २.७९) इति वा । ‘गुडारोचनिकानीलीमञ्जिष्ठासु च रञ्जनी । रजनी नीलिनीरात्रिहरिद्राजतुकासु च (इति मेदिनी) ॥


प्रक्रिया

धातुः - रन्जँ रागे


रन्ज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
रंज् - नश्चापदान्तस्य झलि 8.3.24
रञ्ज् - अनुस्वारस्य ययि परसवर्णः 8.4.58
रञ्ज् + ल्युट् - कृत्यल्युटो बहुलम् 3.3.113
रञ्ज् + यु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
रञ्ज् + अन - युवोरनाकौ 7.1.1
रञ्जन + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
रञ्जन + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
रञ्जन् + ई - यस्येति च 6.4.148
रञ्जनी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
रञ्जनी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
रञ्जनी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68