ध्रुवः

सुधाव्याख्या

ध्रुवति । ‘ध्रुव गतिस्थैर्ययोः’(तु० प० से०) । 'इगुपध (३.१.१३५) इति कः । ध्रुवो वटे । वसुयोगभिदोः शम्भौ । शङ्कावुत्तानपादजे । स्थिरे नित्ये निश्चिते च ध्रुवं खेऽजस्रतर्कयोः । ध्रुवा मूर्वाशालिपर्ण्यो: स्रुग्मेदे गोतभिद्यपि' इति हैमः ।