करञ्जकः

सुधाव्याख्या

कं रञ्जयति । 'कर्मण्यण्' (३.२.१)। ('ज्ञापकसिद्धं न सर्वत्र' इत्युक्तेर्नलोपाभावः)। स्वार्थे कन् (५.३.७५) ॥


प्रक्रिया

धातुः - रन्जँ रागे


रञ्ज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
रञ्ज् + णिच् - हेतुमति च 3.1.26
रञ्ज् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
क + अम् + रञ्ज् + इ + अण् - कर्मण्यण् 3.2.1, उपपदमतिङ् 2.2.19
क + रञ्ज् + इ + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
क + रञ्ज् + अण् - णेरनिटि 6.4.51, सुपो धातुप्रातिपदिकयोः 2.4.71
क + रञ्ज् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
करञ्ज + सु + कन् - संज्ञायां कन् 5.3.75
करञ्ज + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
करञ्ज + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
करञ्जक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
करञ्जक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
करञ्जक + रु - ससजुषो रुः 8.2.66
करञ्जक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
करञ्जकः - खरवसानयोर्विसर्जनीयः 8.3.15