करजः

सुधाव्याख्या

करेण जन्यते । ‘अन्यत्रापि’ (३.२.१०१) इति डः । कं सुखं जलं वा रञ्जयति। ‘कर्मण्यण्’। (३.२.१) – 'त्यजरज-' (३.२.१४२) इति निर्देशादक्डित्यपि नलोपः। संज्ञापूर्वकत्वान्न वृद्धिः। – णिलोपस्य स्थानिवत्त्वान्नोपधावृद्धिः – इति मुकुटः । तन्न । एवमपि णिनिमित्तवृद्धेर्दुर्वारत्वात् । 'करजं स्याद्व्याघ्रनखे करञ्जनखयोः पुमान्’ ॥