पिच्छा

सुधाव्याख्या

पीति । पतितुमिच्छति । ‘पत्लृ गतौ’ (भ्वा० प० से०) । सन्नन्तः । पचाद्यच् (३.१.१३४) । पृषोदरादिः (६.३.१०९) । यद्वा पिच्छ(य)ति, पिच्छ्यते, वा । ‘पिच्छ बाधे’ (चु० प० से०) । अच् (३.१.१३४) । घञ् (३.३.१८) वा ॥


प्रक्रिया

धातुः - पतॢँ गतौ


पत् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पत् + सन् - धातोः कर्मणः समानकर्तृकादिच्छायां वा 3.1.7
पत् + स - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पत् + पत् + स - सन्यङोः 6.1.9
प + पत् + स - हलादिः शेषः 7.4.60
पि + पत् + स - सन्यतः 7.4.79
पि + पत् + स + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
पि + पत् + स + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पि + पत् + स् + अ - अतो लोपः 6.4.48
पिच्छ - पृषोदरादीनि यथोपदिष्टम् 6.3.109
पिच्छ + टाप् - अजाद्यतष्टाप्‌ 4.1.4
पिच्छ + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
पिच्छा - अकः सवर्णे दीर्घः 6.1.101
पिच्छा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पिच्छा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पिच्छा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68