ज्यौत्स्नी

सुधाव्याख्या

ज्यौत्स्नीति । ज्योत्स्नास्त्यस्याः ‘ज्योत्स्नादिभ्य उपसंख्यानम्' (वा० ५.२.१०१) इत्यण् । ‘ज्यौत्स्नी पटोली ज्योत्स्नावन्निशोः' इति हैमः ॥ संज्ञापूर्वकत्वात् वृद्ध्यभावे ‘ज्योत्स्नी’ अपि ॥


प्रक्रिया