लाङ्गलिकी

सुधाव्याख्या

स्यादिति । लाङ्गलं पुष्पविशेषोऽस्त्यस्याः । ठन् (५.२.११५) । ‘जाते:' (४.१.६३) इति ‘-गौरा-' (४.१.४१) इति वा ङीष् । लाङ्गलवत् खनति भूमिम् । ‘तेन दीव्यति (४.४.२) इति ठक् । ‘टिड्ढा-' (४.१.१५) इति ङीप् ॥