पटोलिका

सुधाव्याख्या

पटति । ‘पट गतौ' (भ्वा० प० से०) । ‘कपिगडिगण्डि-' (उ० १.६६) इत्योलच् । गौरादिः (४.१.४१) । स्वार्थे कन् (१.३.७५) । ‘पटोलं वस्त्रभेदे नौषधौ ज्योत्स्न्यां तु योषिति' (इति मेदिनी) ॥


प्रक्रिया

धातुः - पटँ गतौ


पट् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पट् + ओलच् - कपिगडिगण्डिकटिपटिभ्य ओलच् (१.६६) । उणादिसूत्रम् ।
पटोल - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पटोल + ङीष् - षिद्गौरादिभ्यश्च 4.1.41
पटोल + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9, तस्य लोपः 1.3.9
पटोल् + ई - यस्येति च 6.4.148
पटोली + सु + कन् - संज्ञायां कन् 5.3.75
पटोली + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
पटोली + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पटोलिक - केऽणः 7.4.13
पटोलिक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
पटोलिक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
पटोलिका - अकः सवर्णे दीर्घः 6.1.101
पटोलिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पटोलिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पटोलिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68