विदारिगन्धा

सुधाव्याख्या

विदेति । विदार्या गन्धः विदारिगन्धः । ‘ड्यापोः-' (६.३.६३) इति ह्रस्वः । सोऽस्त्यस्याः । मुकुटस्तु - विदारीगन्ध इव गन्धोऽस्याः - इति विववार । तच्चिन्त्यम् । 'उपमानाच्च (५.४.१३७) इतीकारप्रसङ्गात् ॥