भुजङ्गाक्षी

सुधाव्याख्या

भुजंगानक्षति । ‘अक्षू व्याप्तौ’ (भ्वा० प० से०) । 'कर्मण्यण्’ (3.२.१) यद्वा भुजंगोऽक्षि यस्याः । ‘अक्ष्णोऽदर्शनात् (५.४.७६) इत्यच् । ‘जाते:-' (४.१.६३) इति- ‘गौरादिः (४.१.४१) इति वा ङीष् । भुजंगशब्दस्य भुजंगाक्षिसदृशे लक्षणा ॥


प्रक्रिया

धातुः - अक्षूँ व्याप्तौ


अक्ष् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भुजङ्ग + शस् + अक्ष् + अण् - कर्मण्यण् 3.2.1, उपपदमतिङ् 2.2.19
भुजङ्ग + अक्ष् + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
भुजङ्ग + अक्ष् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
भुजङ्गाक्ष - अकः सवर्णे दीर्घः 6.1.101
भुजङ्गाक्ष + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
भुजङ्गाक्ष + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
भुजङ्गाक्ष् + ई - यस्येति च 6.4.148
भुजङ्गाक्षी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
भुजङ्गाक्षी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भुजङ्गाक्षी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68