छत्राकी

सुधाव्याख्या

छत्रमकति । ‘अक कुटिलायां गतौ' (भ्वा० प० से०) । ‘कर्मण्यण्' (३.२.१) ॥


प्रक्रिया

धातुः - अकँ कुटिलायां गतौ


अक् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
छत्त्र + अम् + अक् + अण् - कर्मण्यण् 3.2.1, उपपदमतिङ् 2.2.19
छत्त्र + अक् + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
छत्त्र + अक् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
छत्त्राक - अकः सवर्णे दीर्घः 6.1.101
छत्त्राक + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
छत्त्राक + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
छत्त्राक् + ई - यस्येति च 6.4.148
छत्त्राकी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
छत्त्राकी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
छत्त्राकी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68