सरला

सुधाव्याख्या

सरति । ‘सृ गतौ' (भ्वा० प० से०) । बाहुलकादलन् ॥ ‘सरणा' इति पाठे युच् (३.२.१५०) । ‘सर्वानुभूति: सरला त्रिपुटा रेचनी सरा इति वाचस्पतिः ॥