त्रिभण्डी

सुधाव्याख्या

त्रीन् दोषान् भण्डते । ‘भडि परिभाषणे' (भ्वा० आ० से०) । ‘कर्मण्यम्' (३.२.१) ॥


प्रक्रिया

धातुः - भडिँ परिभाषणे


भड् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भ नुम् ड् - इदितो नुम् धातोः 7.1.58
भ न् ड् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भंड् - नश्चापदान्तस्य झलि 8.3.24
भण्ड् - अनुस्वारस्य ययि परसवर्णः 8.4.58
त्रि + शस् + भण्ड् + अण् - कर्मण्यण् 3.2.1, उपपदमतिङ् 2.2.19
त्रि + भण्ड् + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
त्रि + भण्ड् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
त्रिभण्ड + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
त्रिभण्ड + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
त्रिभण्ड् + ई - यस्येति च 6.4.148
त्रिभण्डी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
त्रिभण्डी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
त्रिभण्डी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68