रोचनी

सुधाव्याख्या

रोचते । ‘रुच दीप्तावभिप्रीतौ च' (भ्वा० आ० से०) । ल्युट् (३.३.११३) । रेचनी' इति पाठे ‘रिचिर् विरेचने’ (रु० उ० अ०) । ‘रेचनी त्रिवृतादन्त्योः । ‘रोचनी कर्कशे स्मृता' (इति मेदिनी)॥


प्रक्रिया