सुषेणिका

सुधाव्याख्या

सुष्ठ सेनया याति । सेनाशब्दात् ‘सत्यापपाश-' (३.१.२५) इति णिच् । पचाद्यच् । ‘एति संज्ञायामगात्’ (८.३.९९) इति षत्वम् । स्वार्थे कन् (५.३.७५) ॥


प्रक्रिया

सु + सेना + णिच् - सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 3.1.25
सु + सेना + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
सु + सेना + इ + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
सु + सेना + अच् - णेरनिटि 6.4.51
सु + सेना + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
सुसेना - अकः सवर्णे दीर्घः 6.1.101
सुषेना - एति संज्ञायामगात्‌ 8.3.99
सुषेणा - रषाभ्यां नो णः समानपदे 8.4.1
सुषेणा + सु + कन् - संज्ञायां कन् 5.3.75
सुषेणा + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
सुषेणा क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
सुषेणक - केऽणः 7.4.13
सुषेणक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
सुषेणक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
सुषेणका - अकः सवर्णे दीर्घः 6.1.101
सुषेणका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सुषेणका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सुषेणका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
सुषेणिका - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44