गण्डाली

सुधाव्याख्या

गण्डति । ‘गडि वदनैकदेशे' (भ्वा० प० से०) । बाहुलकादालञ् । गण्डमलति वा । 'कर्मण्यण्' (३.२.१) । ‘टिड्ढा-' (४.१.१५) इति ङीप् । गौरादिः (४.१.४१) वा ॥