शकुलाक्षकः

सुधाव्याख्या

शकुलस्य मत्स्यस्येवाक्षि यस्य । ‘अक्ष्णोऽदर्शनात्’ (५.४.७६) इत्यच् । स्वार्थे कन् (५.३.७५) ॥


प्रक्रिया

शकुल + सु + अक्षिन् + सु - अनेकमन्यपदार्थे 2.2.24
शकुल + अक्षिन् - सुपो धातुप्रातिपदिकयोः 2.4.71
शकुलाक्षिन् - अकः सवर्णे दीर्घः 6.1.101
शकुलाक्षिन् + अच् - अक्ष्णोऽदर्शनात्‌ 5.4.76
शकुलाक्षि + अच् - नलोपः प्रातिपदिकान्तस्य 8.2.7
शकुलाक्षि + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
शकुलाक्ष् + अ - यस्येति च 6.4.148
शकुलाक्ष + सु + कन् - संज्ञायां कन् 5.3.75
शकुलाक्ष + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
शकुलाक्ष + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
शकुलाक्षक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
शकुलाक्षक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शकुलाक्षक + रु - ससजुषो रुः 8.2.66
शकुलाक्षक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शकुलाक्षकः - खरवसानयोर्विसर्जनीयः 8.3.15