गोलोमी

सुधाव्याख्या

अथेति । सा दूर्वा । सिता शुक्ला । गोलोमसु जाता । ‘तत्र जातः' (४.३.२५) इत्यण् । संज्ञापूर्वकत्वान्न वृद्धिः । ‘गोलोमी श्वेतदूर्वायां स्याद्वचाभूतकेशयोः' (इति मेदिनी) ॥