कुरुविन्दः

सुधाव्याख्या

कुर्विति । कुरून् विन्दति । ‘विद्लृ लाभे’(तु० उ० अ०) । ‘अनुपसर्गाल्लिम्प०' (३.१.१३८) इति शः । ‘कुरुविन्दं रत्नभेदे मुस्ताकुल्माषयोः पुमान्' इति विश्वमेदिन्यौ ।