अर्यमा

सुधाव्याख्या

इयर्ति । 'श्वन्नुक्षन्पूषन्-' ( उ० १.१५९) इति निपातितः । (‘अर्यमा पितृदैवते) । तरणौ सूर्यभक्तायाम् ।।


प्रक्रिया

धातुः - ऋ गतौ


ऋ गतौ
ऋ + यत् - अर्यः स्वामिवैश्ययोः 3.1.103
ऋ + य - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अर् + य - सार्वधातुकार्धधातुकयोः 7.3.84
माङ् माने
मा - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अर्य + मा + कनिन् - श्वन्नुक्षन्पूषन्प्लीहन्क्लेदन्स्नेहन्मूर्धन्मज्जन्नर्यमन्विश्वप्सन्परिज्जन्मातरिश्वन्मघवन्निति (१.१५९) । उणादिसूत्रम् ।
अर्य + मा + अन् - लशक्वतद्धिते 1.3.8, हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अर्य + म् + अन् - आतो लोप इटि च 6.4.64
अर्यमन् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अर्यमन् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अर्यमन् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
अर्यमान् - सर्वनामस्थाने चासम्बुद्धौ 6.4.8
अर्यमा - नलोपः प्रातिपदिकान्तस्य 8.2.7