सूरः

सुधाव्याख्या

सुवति प्रेरयति कर्मणि लोकम् । ‘षू प्रेरणे’ (तु० प० से०) । ‘सुसूधाञ्गृधिभ्यः क्रन्’ (उ० २.२४) । दन्त्यादिः ॥ शवति । ‘शु गतौ” (सौत्रः) ‘शुसिचिमीनां दीर्घश्च' (उ० २.२५) इति क्रनि शूरश्च । ‘शूरश्चारुभटे सूर्य इति विश्वः । ‘सुभटे शूरः सूर्ये च दन्त्योऽपि’ इत्यूष्मविवेकः शूरयते वा । ‘शूर विक्रान्तौ’ (चु० अ० से०) अच् (३. १.१३४) । यतु-सूते प्रेरयत्यन्धकारम्, इति विग्रहं प्रदर्श्य 'षू प्रेरणे’ (तु० प० से०) इति धातोरुपन्यसनं मुकुटेन कृतम् । तन्न । उक्तधातोस्तादृशरूपाभावात् ।