दिवाकरः

सुधाव्याख्या

दिवा दिनं करोति । दिवाविभा–’ (३.२.३१) इति ट: ।


प्रक्रिया

धातुः - डुकृञ् करणे


कृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9, आदिर्ञिटुडवः 1.3.5
दिवा + अम् + कृ + ट -दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिम्लिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यत्तत्धनुररुष्षु 3.2.21, उपपदमतिङ् 2.2.19
दिवा + कृ + ट - सुपो धातुप्रातिपदिकयोः 2.4.71
दिवा + कृ + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
दिवा + कर् + अ - सार्वधातुकार्धधातुकयोः 7.3.84
दिवाकर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
दिवाकर + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दिवाकर + रु - ससजुषो रुः 8.2.66
दिवाकर + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दिवाकरः - खरवसानयोर्विसर्जनीयः 8.3.15